अकाले कृत्यमारब्धं...

विकिसूक्तिः तः

सुभाषितम्

अकाले कृत्यमारब्धं कर्तुर्नार्थाय कल्प्यते ।
तदेव काले आरब्धं महतेऽर्थाय कल्प्यते ॥

महाभारतम्/शान्तिपर्व १३८/९५

akāle kṛtyamārabdhaṃ karturnārthāya kalpyate ।
tadeva kāle ārabdhaṃ mahate'rthāya kalpyate ॥

पदच्छेदः

अकाले, कृत्यम्, आरब्धम्, कर्तुः, न, अर्थाय, कल्पते, तद्, एव, काले, आरब्धं, महते, अर्थाय, कल्पते।


तात्पर्यम्

कार्यकरणात् पूर्वं विवेकी मनुष्यः परिस्थितिम् अवलोकयेत् । असमये आरब्धं कार्यं कर्तुः लाभदायकं न भवेत् । किन्तु तदेव कार्यं यदि समीचीने समये क्रियेत तर्हि तत् नितराम् उपयुक्तकरं स्यात् ।


आङ्ग्लार्थः

Any work started at a wrong time will not bear fruit. The same work started at the right time are said to bring to the doer great results.

"https://sa.wikiquote.org/w/index.php?title=अकाले_कृत्यमारब्धं...&oldid=17755" इत्यस्माद् प्रतिप्राप्तम्