अञ्जलिस्थानि पुष्पाणि...

विकिसूक्तिः तः

सुभाषितम्

अञ्जलिस्थानि पुष्पाणि वासयन्ति करद्वयम्।
अहो सुमनसां प्रीतिर्वामदक्षिणयो: समा॥

añjalisthāni puṣpāṇi vāsayanti karadvayam।
aho sumanasāṃ prītirvāmadakṣiṇayo: samā॥

पदच्छेदः

अञ्जलिस्थानि, पुष्पाणि, वासयन्ति, करद्वयम्, अहो, सुमनसां, प्रीतिः, वामदक्षिणयोः, समा।


तात्पर्यम्

करे विद्यमानानि पुष्पाणि करद्वयमपि सुगन्धभरितानि कुर्वन्ति । तथैव महात्मनां प्रीतिः सज्जनानां विषये दुर्जनानां विषये च समानं भवति ।


आङ्ग्लार्थः

When fragrant flowers are held in the anjali (joined palms of one’s hands), they do not discriminate between the two hands. They do not give their fragrance to one hand and deny it to the other. The same attitude – that of behaving in the same manner towards all – is shown by good persons.