अन्तः प्रवर्धते मैत्री...

विकिसूक्तिः तः

सुभाषितम्

अन्तः प्रवर्धते मैत्री क्षीयते बाह्यशत्रुता ।
दृढं सङ्घटिते राष्ट्रे सामर्थ्यं वर्धतेतराम् ॥

antaḥ pravardhate maitrī kṣīyate bāhyaśatrutā ।
dṛḍhaṃ saṅghaṭite rāṣṭre sāmarthyaṃ vardhatetarām ॥

पदच्छेदः

अन्तः, प्रवर्धते, मैत्री, क्षीयते, बाह्यशत्रुता, दृढं, सङ्घटिते, राष्ट्,रे सामर्थ्यं, वर्धतेतराम् ।


तात्पर्यम्

राष्ट्रं सुभद्रं सङ्घटितं चेत् अन्तःस्नेहः वर्धते, बाह्यद्वेषः क्षीणः भवति । सामर्थ्यमपि विशेषतया प्रवर्धते ।


आङ्ग्लार्थः

When a nation is well organized, internal affection increases and external hatred decreases. Capacity is also particularly enhanced.