उद्यमः साहसं धैर्यं...

विकिसूक्तिः तः

सुभाषितम्

उद्यमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः।
षडेते यत्र वर्तन्ते तत्र देवः सहायकृत् ॥

udyamaḥ sāhasaṃ dhairyaṃ buddhiḥ śaktiḥ parākramaḥ।
ṣaḍete yatra vartante tatra devaḥ sahāyakṛt ॥

पदच्छेदः

उद्यमः, साहसं, धैर्यं, बुद्धिः, शक्तिः, पराक्रमः,षड्, एते, यत्र, वर्तन्ते, तत्र, देवः, सहायकृत् ।


तात्पर्यम्

प्रयत्नः, साहसं, धैर्यं, बुद्धिः, शक्तिः, पराक्रमः - एते षड् यत्र वर्तन्ते तत्र दैवमपि साहाय्यम् आचरेत् ।


आङ्ग्लार्थः

Industrious, Courage, Patience, Wisdom, Power and Perseverance: Those, who possess these six qualities, get the favour from Gods also.

"https://sa.wikiquote.org/w/index.php?title=उद्यमः_साहसं_धैर्यं...&oldid=16143" इत्यस्माद् प्रतिप्राप्तम्