कालिदासः जने जने...

विकिसूक्तिः तः

कालिदासः जने जने...


कालिदासः जने जने
कण्ठे कण्ठे संस्कृतम्
ग्रामे ग्रामे नगरे नगरे
गेहे गेहे संस्कृतम् ॥

मुनिजनवाणी कविजनवाणी
प्रियजनवाणी संस्कृतम् ॥
सरला भाषा मधुरा भाषा
दिव्या भाषा संस्कृतम् ॥

मुनिजनवाञ्छा कविजनवाञ्छा
बुधजनवाञ्छा संस्कृतम् ॥
गमनागमने कार्यक्षेत्रे
वार्तालापे संस्कृतम् ॥

जने जने रामायणचरितम्
प्रियजनभाषा संस्कृतम् ॥
स्थाने स्थाने भारतदेशे
सदने सदने संस्कृतम् ॥




"https://sa.wikiquote.org/w/index.php?title=कालिदासः_जने_जने...&oldid=17767" इत्यस्माद् प्रतिप्राप्तम्