चाटुचणकः(वस्त्रम्)
अयं पटो मे पितुरङ्गभूषणं
पितामहाद्यैरुपभुक्तयौवनम् ।
अलङ्करिष्यत्यथ पुत्रपौत्रकान्
अतो मया पुष्पवदेव धार्यते ॥
कस्यचन निर्धनस्य समीपे एकं प्राचीनं जीर्णं च वस्त्रम् आसीत् । तस्य धारणसमये सः विशेषजागरूकतां वहति स्म । 'एतस्य कारणं किम् ?' इति पृष्टः सः वदति-
'एतत् वस्त्रं मम पिता धरति स्म । यदा एतत् नूतनम् आसीत् तदा एतत् पितामहप्रपितामहादयः धरन्ति स्म । एतत् एव मम पुत्रपौत्रदयः अपि धरिष्यन्ति । अतः एव वस्त्रस्य कापि क्षतिः यथा न स्यात् तथा विशेषजागरूकतया पुस्पवत् धरामि' ।
आदिमध्यान्तरहितं दशाहीनं पुरातनम् ।
अद्वितीयमहं वन्दे मद्वस्त्रसदृशं विभुम् ॥
कश्चन दरिद्रः स्वसमीपे स्थितं वस्त्रं वर्णयति – 'एतस्य वस्त्रस्य आदिः मध्यम् अन्तं च नास्ति । दशा अपि नास्ति । पुरातनम् अपि एतत् । एतादृशम् अन्यत् नास्ति एव' ।
दरिद्रः अपि सः कविः चतुरः । सः वदति – 'देवः अपि मद्वस्त्रसदृशः अस्ति' इति । कथं देवः जीर्णवस्त्रसदृशः भवेत् इति ? देवस्य आदिमध्यान्तादयः यथा न सन्ति तथैव एतस्य वस्त्रस्यापि । देवः दशाहीनः (बाल्यादिदशाः तस्य न सन्ति ) वस्त्रम् अपि दशाहीनम् । देवः पुरातनः । वस्त्रम् अपि तथैव । देवः अद्वितीयः । वस्त्रम् अपि तादृशम् एव । एवं च सिद्धं खलु –जीर्णवस्त्रभगवतोः सादृश्यम् !!