चाटुचणकः(अतिथिः)

विकिसूक्तिः तः

आयाति निश्चिते काले किन्तु नास्त्येव निश्चिता ।
प्रस्थानाय तिथिर्यस्य तस्मादतिथिरुच्यते ॥

 य: अतति - सातत्येन गच्छति स: ‘अतिथि:’ उच्यते शास्त्रे (अत + इथिन्) । किन्तु केचन तु गृहम् आगता: सन्त: गमनलक्षणं न दर्शयन्ति एव । तेषां प्रस्थानदिनं निश्चितं न भवति । ‘अयं कदा वा इत: निर्गच्छेत्’ इति चिन्तयन् गृहस्वामी यथा बहुधा खिद्येत तथा स्थितिं निर्मान्ति ते । अत: एव कवि: कश्चन वदति - यस्य (गमन)तिथि: न विद्यते स: ‘अतिथि:’ इति उच्यते इति । अत्र व्युत्पत्तौ तात्पर्ये वा असम्मतिं दर्शयितुं नार्हाम: वयम् । भवताम् आशय: क: एतस्मिन् विषये ?


प्रस्थास्यमान: प्रविशेत् प्रतिष्ठेत दिने दिने ।
विचित्रानुल्लिखेत् विघ्नान् तिष्ठासुरतिथिश्चिरम् ॥

 यदि कस्यचित् गृहे अतिथित्वेन दीर्घकालं स्थातुम् इच्छा तर्हि अत्र सन्ति केचन उपाया: । ‘त्वरया प्रस्थातव्यमस्ति मया’ इति वदता एव आतिथेयस्य गृहं प्रवेष्टव्यम् । ‘अद्य गच्छामि’ इति प्रतिदिनम् अपि वदेत् । प्रतिदिनम् अपि निर्गमनबाधकानि विचित्राणि कारणानि वक्तव्यानि च । एतादृशा: अन्ये अपि उपाया: आश्रिता: चेत् आतिथेयस्य गृहे दीर्घकालं वास: अवश्यं शक्य: ।


"https://sa.wikiquote.org/w/index.php?title=चाटुचणकः(अतिथिः)&oldid=15911" इत्यस्माद् प्रतिप्राप्तम्