चाटुचणकः(पानीयम्)

विकिसूक्तिः तः
पानीयम्


चीयते चित्तविस्फूर्तिः चीयते कायिकं बलम् ।
चीयते पटुता वाचि तस्माच्चाय इति प्रथा ॥ (-आत्रेयलघुलेखमालातः)
लोके तादृशः प्रायः कोऽपि नास्ति, यश्च 'चाय'पेयं न जानीयात् । एतस्य पेयस्य 'चायः' इति नाम किमर्थम् आगतम् ? कविः वदति – 'एतस्य पानात् स्फूर्तिः चीयते (वर्धते), शरीरबलम् अपि चीयते, वचनपाटवम् अपि चीयते । एवं मनसः कार्यस्य वचसः च शक्तेः चायकस्य एतस्य पेयस्य नाम 'चायः' इति जातम्' इति ।
न वयं विप्रतिपत्तिं वदामः कवेः नामकरणविषये ।



पयःसत्त्वं कापियूषस्तमः, शर्करिकारजः ।
गुणत्रययुता माया कापि काफीति कथ्यते ॥ - (आत्रेयलघुलेखमालातः)
'काफी'नामकं पेयं मायाशबलितम्, गुणत्रयात्मकं च । तस्य मोहकगुणकारणतः मायामयत्वं कदाचित् अङ्गीक्रियेत । किन्तु त्रिगुणात्मकता कथम् ? कविः वदति - 'पयसः सत्त्वगुणः (श्वेतत्वात्) पूर्णकषायस्य तमोगुणः (कृष्णमयत्वात्) शर्करिकायाः रजोगुणः (चूर्णमयत्वात्) च तस्मिन् अस्ति' इति ।
पेयेऽस्मिन् यद्यपि सात्त्विकता सर्वथा नास्ति, तथापि कविना या युक्तिः दर्शिता तदनुगुणं चिन्तयामः चेत् सत्त्वगुणोपेतत्वम् अपि अङ्गीकरणीयम् एव ।

"https://sa.wikiquote.org/w/index.php?title=चाटुचणकः(पानीयम्)&oldid=15679" इत्यस्माद् प्रतिप्राप्तम्