जैनदर्शनसूक्तयः (दानम्)

विकिसूक्तिः तः

१. दयायाः परिरक्षार्थं गुणाः शेषाः प्रकीर्तिताः । - आदिपुरणम् ५.२१

२. दीनान् दृष्ट्वा हि कस्यात्र दया नो जायते लघु ? - पांडवपुराणम् २.१४३

३. धर्मः प्राणिदया स्मृता । - पद्मपुराणम् २६.६४

४. धर्मस्य हि दया मूलम् । - पद्मपुराणम् ६.२८६

५. धिग्जीव्यं सुदयातिगम् । - पांडवपुराणम् १२.३०७

६. न्यायो दयार्द्रवृत्तित्वमन्यायः प्राणिमारणम् । - आदिपुराणम् ३९. १४१

७. न नृशंसस्य दयास्ति साधुषु । - पार्श्वनाथचरितम् ४.२७

८. हितं करोत्यसौ स्वस्य भूतानां यो दयापरः । - पद्मपुराणम् ३३.१०२