तं न पश्यन्ति, अकृत्स्नो हि सः...

विकिसूक्तिः तः

तं न पश्यन्ति, अकृत्स्नो हि सः; प्राणन्नेव प्राणो नाम भवति, वदन् वाक्,
पश्यन् चक्षुः शृण्वन् श्रोत्रं, मन्वानो मनः, तान्यस्य एतानि कर्मनामानि भवन्ति । - बृहदारण्यकोपनिषत् १-४-७

ते परिपूर्णम् आत्मानं न पश्यन्ति । तैः दृश्यमानोऽयमात्मा अपरिपूर्ण एव । यदा प्राणिति तदा प्राणो भवति ।
यदा वदति तदा वाक् भवति । यदा पश्यति तदा चक्षुर्भवति । यदा शृणोति तदा श्रोत्रं भवति । यदा मनुते तदा
मनो भवति । एवम् एतानि नामानि तत्तत्क्रियाजातानि कर्मनामानि भवन्ति ॥

आत्मनः विद्यमानं नैजं स्वरूपम् अन्यत्, अज्ञानिभिः ज्ञायमानं स्वरूपमेव अन्यत् । तद्यथा, आत्मा परिपूर्णः
अज्ञानिनस्तु तम् आत्मानं प्राणः इति वा, वाक् इति वा, चक्षुः, श्रोत्रम्, मनः इति वा पश्यन्ति । इमानि सर्वाण्यपि
नामानि तत्तत्क्रियाजातान्येव न तु आत्मनः स्वरूपम् । ये तु आत्मनः इयदेव आत्मस्वरूपम् इति मन्यन्ते, ते अकृत्स्नविदः
एव । न ते पूर्णज्ञानिनः । एतानि सर्वाणि औपाधिकनामानि अविद्याकल्पितान्येव ॥