दक्षः श्रियमधिगच्छति...

विकिसूक्तिः तः

सुभाषितम्

दक्षः श्रियमधिगच्छति पथ्याशी कल्यतां सुखमरोगी ।
उद्युक्तो विद्यान्तं धर्मार्थयशांसि च विनीतः ॥

सुभाषितरत्नभाण्डागारः

dakṣaḥ śriyamadhigacchati pathyāśī kalyatāṃ sukhamarogī ।
udyukto vidyāntaṃ dharmārthayaśāṃsi ca vinītaḥ ॥

पदच्छेदः

दक्षः, श्रियम्, अधिगच्छति, पथ्याशी, कल्यतां, सुखम्, अरोगी, उद्युक्तः, विद्यान्तं, धर्मार्थयशांसि च विनीतः ।


तात्पर्यम्

दक्षः जनः एव ऐश्वर्यं विन्दति । पथ्यम् आहारं यः भुङ्क्ते सः एव आरोग्यवान् भवति । रोगरहितः एव सुखी भवति । यः परिश्राम्यति सः एव विद्यायां परिणतः भवति । विनयशीलेन धर्मः, अर्थः, यशः च प्राप्यते ।


आङ्ग्लार्थः

One who is diligent gets wealth; he who eats what is wholesome gets health; a man who is healthy gets happiness; one who is resolute (lit. closely applying oneself to study) gets mastery over learning; and one who is well-trained, gets religious merit, wealth and fame.