दधि मधुरं मधु मधुरं...

विकिसूक्तिः तः


सुभाषितम्

दधि मधुरं मधु मधुरं द्राक्षा मधुरा सितापि मधुरैव ।
तस्य तदेव हि मधुरं यस्य मनो यत्र संलग्नम् ॥

dadhi madhuraṃ madhu madhuraṃ drākṣā madhurā sitāpi madhuraiva । tasya tadeva hi madhuraṃ yasya mano yatra saṃlagnam ॥

पदच्छेदः

दधि, मधुरं, मधु, मधुरं, द्राक्षा, मधुरा, सिता, अपि, मधुरा, एव, तस्य, तत्, एव, हि, मधुरं, यस्य, मनः, यत्र, संलग्नम् ।


तात्पर्यम्

दधि मधुरं भवति, मधु भवति, द्राक्षा, सितापि मधुरा एव । यस्य मनः यत्र आकृष्टं भवति तस्य तदेव मधुरं भवति ॥


आङ्ग्लार्थः

Yoghurt is sweet. So are honey, grapes and nectar. But a thing is sweet to him to which his/her mind is attached. Fair is not fair, but that which pleaseth.

"https://sa.wikiquote.org/w/index.php?title=दधि_मधुरं_मधु_मधुरं...&oldid=18063" इत्यस्माद् प्रतिप्राप्तम्