दर्पणमुखावलोकनन्यायः

विकिसूक्तिः तः

यादृशं बिम्बं, दर्पणे तस्य प्रतिबिम्बं भवति । कुरुपस्य मुखं दर्पणे कुरुपम् एव भवति । सुन्दरं मुखं सुन्दरम् एव भवति । स्वयं पदार्थस्य यः स्वभावः स एव प्रतिबिम्बितो भवति इति अस्य न्यायस्य अर्थः ।