पठत संस्कृतम्...

विकिसूक्तिः तः

पठत संस्कृतम्...


पठत संस्कृतम्, वदत संस्कृतम्

लसतु संस्कृतं चिरं गृहे गृहे च पुनरपि ॥ पठत ॥


ज्ञानवैभवं वेदवाङ्मयं
लसति यत्र भवभयापहारि मुनिभिरार्जितम् ।
कीर्तिरार्जिता यस्य प्रणयनात्
व्यास-भास-कालिदास-बाण-मुख्यकविभि: ॥१॥


स्थानमूर्जितं यस्य मन्वते
वाग्विचिन्तका हि वाक्षु यस्य वीक्ष्य मधुरताम् ।
यद्विना जना नैव जानते
भारतीयसंस्कृतिं सनातनाभिधां वराम् ॥२॥


जयतु संस्कृतम्, संस्कृतिस्तथा
संस्कृतस्य संस्कृतेश्च प्रणयनाच्च मनुकुलम् ।
जयतु संस्कृतम्, जयतु मनुकुलम्

जयतु जयतु संस्कृतम्, जयतु जयतु मनुकुलम् ॥३॥
- मञ्जुनाथशर्मा


"https://sa.wikiquote.org/w/index.php?title=पठत_संस्कृतम्...&oldid=15902" इत्यस्माद् प्रतिप्राप्तम्