प्रोक्ता अन्येनैव...

विकिसूक्तिः तः

प्रोक्ता अन्येनैव सुज्ञानाय प्रेष्ठ । - काठकोपनिषत् १-२-९

हे प्रीतिपात्रभूत नचिकेतः, ब्रह्मिष्ठेन आचार्येण उपदिष्टे सति अयमात्मा
सुलभतया ज्ञायते ।

ब्रह्मनिष्ठस्य ब्रह्मविद्याचार्यस्य मृत्युदेवस्य सन्देशोऽयम् । यः आचार्यः
शिष्येभ्यः परब्रह्मतत्त्वम् उपदिशति स यदि केवलं कलाशालासु अधीतशास्त्रः
शुष्कपण्डितः शालोपाध्यायः भवति, तावता तस्य उपदेशेन अनादेः अविद्यायाः
नाशो न भवति, न च मुक्तिर्लभ्यते । इदानीं तु ईदृशाः एव शुष्कपण्डिताः
आचार्याः सर्वत्रापि दरीदृश्यन्ते । न च ते स्वयं ब्रह्मज्ञानिनः, तेषां
वेदान्तोपदेशेन श्रोतॄणां ब्रह्मज्ञानं च नोदेति ॥

ब्रह्मविद्याचार्येण ब्रह्मज्ञानिवरेण्येन भाव्यम् । स्वयं ब्रह्मनिष्ठः ब्रह्मानुभवनिष्ठश्चेत्
तस्योपदेशेन शिष्याणाम् आत्मज्ञानम् उदेति । सम्प्रदायविदः, वेदान्तरहस्यविदः
परब्रह्मनिष्ठाश्च सद्गुरवः लौकिकगुरुभ्यः विलक्षणा भवन्ति । एतेषां सम्यग्दर्शिनाम्
आत्मनिष्ठानाम् सद्गुरूणामेव उपदेशः कार्यक्षमो भवति, नेतरेषाम् ॥

"https://sa.wikiquote.org/w/index.php?title=प्रोक्ता_अन्येनैव...&oldid=16313" इत्यस्माद् प्रतिप्राप्तम्