भद्रघटन्यायः

विकिसूक्तिः तः

भद्रनामकः कश्चन कस्यचन यक्षस्य सेवां कृतवान् । तेन संतुष्टेन यक्षेण भद्राय एकः कामपूरकः घटः प्रदत्तः । ततः प्रभृति स भद्रः सर्वाः अपि कामनाः साधयति स्म । बन्धुमित्रादिभिः सह नन्दति स्म । कदाचित् मद्यपानेन मत्तः सः तं भाण्डं गृहीत्वा इतस्ततः भ्रमणम् आरब्धवान् । तदा तस्य हस्तात् च्युतः सः भाण्डः भग्नः अभवत् । एवं दुर्दैवग्रस्ताः महत् ऎश्वर्यं प्राप्य अपि तत् नाशयन्ति रक्षितुं न शक्नुवन्ति इति भावः ।

"https://sa.wikiquote.org/w/index.php?title=भद्रघटन्यायः&oldid=10609" इत्यस्माद् प्रतिप्राप्तम्