भुवनमण्डले नवयुगमुदयतु...

विकिसूक्तिः तः

भुवनमण्डले नवयुगमुदयतु...


भुवनमण्डले नवयुगमुदयतु सदा विवेकानन्दमयम् ।

सुविवेकमयं स्वानन्दमयम् ॥


तमोमयं जनजीवनमधुना निष्क्रियताऽऽलस्यग्रस्तम् ।
रजोमयमिदं किंवा बहुधा क्रोध-लोभ-मोहाभिहतम् ।
भक्ति-ज्ञान-कर्म-विज्ञानैः भवतु सात्विकोद्योतमयम् ॥१॥


वह्निवायुजलबलविवर्धकं पाञ्चभौतिकं विज्ञानम् ।
सलिलनिधितलं गगनमण्डलं करतल-फलमिव कुर्वाणम् ।
दिक्षु-विकीर्णं मनुजकुलमिदं घटयतु चैककुटुम्बमयम्॥२॥


सगुणाकारं ह्यगुणाकारम् एकाकारमनेकाकारम् ।
भजन्ति एते भजन्तु देवं स्वस्वनिष्ठया विमत्सरम् ।
विश्वधर्ममिममुदारभावं प्रवर्धयतु सौहार्दमयम् ॥३॥


जीवे जीवे शिवस्वरूपं सदा भावयतु सेवायाम् ।
श्रीमदूर्जितं महामानवं समर्चयतु निजपूजायाम् ।

चरतु मानवोऽयं सुहितकरं धर्मं सेवात्यागमयम् ॥४॥