मर्यादानां नृपो मूलम्...

विकिसूक्तिः तः
मर्यादानां नृपो मूलमापगानां यथा नगाः ।
अनाचारे स्थिते तस्मिन्, लोकस्तत्र प्रवर्तते ॥ (पद्मपुराणम् - ५३/५)

अन्वय: - यथा नगाः आपगानां (मूलं), (तथा) नृपः मर्यादानां मूलम् । तस्मिन् अनाचारे स्थिते (सति) लोकः तत्र प्रवर्तते ।

पदार्थाः -

नगः = पर्वत:
आपगा = नदी
नृपः = राजा
मर्यादा = आचारः,स्थितिः,न्याय्यपथस्थितिः (यथा - महाभारते। १५। २२। २५।)
लोकः = प्रजाः, सामान्यजना:

सरलार्थः - यथा नदीनां मूलं (उत्पत्तिस्थानं) पर्वताः , तथैव प्रजानां मर्यादायाः मूलं राजा एव । अतः यदि राजा दुराचारे प्रवर्तते, प्रजाः अपि तम् अनुसृत्य दुराचारे एव प्रवर्तन्ते ।

अन्यच्च -

रामो भामिनि लोकस्य चातुर्वर्ण्यस्य रक्षिता ।
मर्यादानां च लोकस्य कर्ता कारयिता च सः ।। ५.३५.११।। इति वाल्मीकिरामायणे