मितं भुङ्क्ते संविभज्याश्रितेभ्यः...

विकिसूक्तिः तः

सुभाषितम्

मितं भुङ्क्ते संविभज्याश्रितेभ्यः मितं स्वपित्यमितं कर्म कृत्वा ।
ददात्यमित्रेष्वपि याचितः सन् तमात्मवन्तं प्रजहत्यनर्थाः ॥




तात्पर्यम्

आश्रितेभ्यः सर्वेभ्यः दत्त्वा यः मितम् आहारं सेवेत, अधिकं कार्यं कृत्वापि यः अल्पां निद्रां कुर्यात्, शत्रुः यदि याचेत तथापि आनन्देन दद्यात्, तादृशस्य धीरस्य जीवने अनर्थाः न सम्भवन्ति एव ।