मित्रप्रशंसा

विकिसूक्तिः तः

मित्रप्रशंसा[सम्पाद्यताम्]

पापान्निवारयति योजयते हिताय
गुह्यान्निगूहति गुणान् प्रकटीकरोति।
आपद्गतञ्च न जहाति ददाति काले
सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः॥


ददाति प्रतिगृह्णाति
गुह्यमाख्याति पृच्छति।
भुङ्क्ते भोजयते चैव
षड्विधं प्रीतिलक्षणम्॥

"https://sa.wikiquote.org/w/index.php?title=मित्रप्रशंसा&oldid=14078" इत्यस्माद् प्रतिप्राप्तम्