यः सर्वेषु भूतेषु तिष्ठन्...

विकिसूक्तिः तः

यः सर्वेषु भूतेषु तिष्ठन्, यः प्राणे तिष्ठन्, यो वाचि तिष्ठन्,
यश्चक्षुषि तिष्ठन्, यः श्रोत्रे तिष्ठन्, यो मनसि तिष्ठन्, यः त्वचि
तिष्ठन् ,यो विज्ञाने तिष्ठन्, यो रेतसि तिष्ठन्, अन्तरो यमयति,
एष ते आत्मा अन्तर्यामी अमृतः । - बृहदारण्यकोपनिषत् ३-७-१५-२३

यः सर्वेषु भूतेषु, प्राणे, वाचि, चक्षुषि, श्रोत्रे, मनसि, त्वचि, विज्ञाने,
रेतसि च तिष्ठन् अन्तरो यमयति, एष ते आत्मा अन्तर्यामी, एषः अमृतः ।

अयं मन्त्रः अन्तर्यामिणः आत्मनः स्वरूपं दर्शयति । ‘अन्तः यमयति’
इति अन्तर्यामी । यः आत्मा अन्तस्तिष्ठन् सर्वान् पदार्थान् नियमयति
सः ‘अन्तर्यामी’ इति कथ्यते ।

सर्वेषां भूतानां, सर्वेषां प्राणिनाम् अन्तरेव तिष्ठन् यः एतानि भूतानि
क्रियाशीलानि करोति स एव आत्मा ‘अन्तर्यामी’ भवति । पञ्च ज्ञानेन्द्रियाणि
पञ्च कर्मेन्द्रियाणि मनश्च संव्याप्य तेषां चैतन्याधायकः आत्मा अन्तर्यामी ।
सर्वमेव विश्वं संव्याप्य विद्यमानोऽयम् आत्मा परमार्थतः परमात्मैव भवति ॥