सदस्यसम्भाषणम्:Charunandan16

पृष्ठ की सामग्री दूसरी भाषाओं में उपलब्ध नहीं है।
विकिसूक्तिः तः

महोदय, प्रणमामि ।
सुभाषितानां योजनावसरे एतान् अंशान् स्मरामश्चेत् सुव्यवस्थितं स्थापयितुं शक्नुमः ।

  1. एकैकं सुभाषितं पृथक् योजयेम । तदा वर्गशः प्राप्तिः सुकरं भवति ।
  2. 'अनुष्टुप्-छन्दसि सुभाषितानि' ........ इत्यादीन् वर्गान् निर्माय ततः तेषां मातृवर्गः भवेत् 'छन्दोनुगुणं सुभाषितानि' इति ।
  3. 'छन्दोनुगुणं सुभाषितानि' इत्येषः वर्गः 'सुभाषितानि' इत्यस्मिन् मातृवर्गे योजनीयम् ।

मया कृतानि परिवर्तनानि अवलोकयतु । संशयः विद्यते चेत् पृच्छतु । धन्यवादः । - Shubha (सम्भाषणम्) १५:३८, १५ अक्तूबर २०१४ (IST)

अन्यः कश्चन विषयः । एकैकस्मिन् छन्दसि भवता सङ्गृहीतानि सर्वे 'सुभाषितानि' इति नाम्ना निर्देष्टुं न शक्यन्ते खलु ? नीतियुतानि केवलं सुभाषितेषु योजयामश्चेत् समीचीनम् । विनोदयुक्तानि 'चाटुचणके' समस्यायुक्तानि, प्रहेलिकाश्च अन्यत्र नेतव्यानि । अतः योजनावसरे प्रत्येकं पृथक् भवतु । आरम्भपादस्य अनन्तरं बिन्दुत्रयम् - अन्नदानं परं दानं... इति शीर्षकं भवतु । भवतः विचारमपि वक्तुमर्हति एव । - Shubha (सम्भाषणम्) १८:२९, १५ अक्तूबर २०१४ (IST)

क्षन्तव्याहम्[सम्पाद्यताम्]

चारुनन्दनवर्य, क्षन्तव्याहम् अत्यन्तं विलम्बेन उत्तरं लिखन्ती अस्मि । एषु मासेषु अहं विकिसूक्तौ अधिकं कार्यं न कृतवती, विकिपीडियायामेव कार्यमासीत् । अतः भवतः सन्देशः न पठितः मया । विकिकार्ये भवतः आसक्तिः श्लाघनीया एव । भवतः विषये अधिकं ज्ञातुमिच्छामि । भवान् कुत्रत्यः ? किं करोति ? ..... मम ईपत्रसङ्केतः - shubhazero@gmail.com - भवान् सम्पर्कं कर्तुम् अर्हति । भवतः प्रश्नस्य उत्तरम् - अन्तर्जालव्यवस्थां प्राप्तुं कष्टं भवति चेत् चिन्तामास्तु । भवान् हस्तेन लिखित्वा यत् दद्यात् तत् सज्जीकृत्य विकिजालपुटेषु वयं योजयिष्यामः । धन्यवादः - Shubha (सम्भाषणम्) १८:५३, ३१ दिसम्बर २०१४ (IST)

"https://sa.wikiquote.org/w/index.php?title=सदस्यसम्भाषणम्:Charunandan16&oldid=14601" इत्यस्माद् प्रतिप्राप्तम्