सूतो वा सूतपुत्रो वा

विकिसूक्तिः तः

सुभाषितम्

सूतो वा सूतपुत्रो वा यो वा को वा भवाम्यहम् ।
दैवायत्तं कुले जन्म मदायत्तं तु पौरुषम् ॥

वेणीसंहारः ३-३७

sūto vā sūtaputro vā yo vā ko vā bhavāmyaham।
daivāyattaṃ kule janma madāyattaṃ tu pauruṣam॥

पदच्छेदः

सूतः, वा, सूतपुत्रः, वा, यः, वा, कः, वा, भवामि, अहम्, दैवायत्तं, कुले, जन्म, मदायत्तं, तु, पौरुषम्॥


तात्पर्यम्

अहं सूतः स्याम् अथवा सूतस्य पुत्रः वा अन्यः वा स्याम् । मम जन्मनः कारणीभूतं विधिः स्यात् नाम । किन्तु मम सामर्थ्यं तु मया एव सम्पादितमस्ति ।


आङ्ग्लार्थः

I may be a charioteer, or the son of a charioteer, or someone else. But know this: Fate may have determined my birth, but my valor is mine own.

"https://sa.wikiquote.org/w/index.php?title=सूतो_वा_सूतपुत्रो_वा&oldid=17777" इत्यस्माद् प्रतिप्राप्तम्