हेरम्बनरसिंहन्यायः

विकिसूक्तिः तः

१. गजाकृतिः मनुष्याकृतिः च मिलित्वा गणपतेः आकृतिः भवति । मनुष्यस्य सिंहस्य च आकृत्योः मेलनेन नरसिंहावतारः भवति । २. हेरम्बस्य नरसिंहस्य च एक भागे गजत्वम् उपरभागे सिंहत्वे च भवति । तथा हि विरोधः एव । एवं परस्परविरुद्धयोः एकत्र स्थितिः अनेन न्यायेन सूच्यते । जैनानाम् एकान्तवादे परस्परविरुद्धांशाः एकत्र भवितुम् अर्हन्ति परन्तु रामानुजमतानुसारं हेरम्बनरसिंहवत् तद् असंभवम् इति प्रतिपादितम् । (सा. ७०७)

"https://sa.wikiquote.org/w/index.php?title=हेरम्बनरसिंहन्यायः&oldid=15925" इत्यस्माद् प्रतिप्राप्तम्