महाभारतसूक्तयः(विभूतिः)

विकिसूक्तिः तः

अहमात्मा गुडाकेश सर्वभूताशयस्थितः॥ भीष्म. ३४/२०; गीता. १०/२०॥

वेदानां सामवेदोऽस्मि॥ भीष्म. ३४/२२; गीता. १०/२२॥

यज्ञानां जप यज्ञोऽस्मि स्थावराणां हिमालयः॥ भीष्म. ३४/२५; गीता. १०/२५॥

अश्वत्थः सर्व वृक्षाणां देवर्षीणां च नारदः॥ भीष्म. ३४/२६; गीता. १०/२६॥

अध्यात्मविद्या विद्यानाम्॥ भीष्म. ३४/३२; गीता. १०/३२॥

कीर्तिः श्रीर्वाक् च नारीणां स्मृतिर्मेधा धृतिः क्षमा॥
भीष्म. ३४/३४; गीता. १०/३४॥

मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः॥ भीष्म. ३४/३५; गीता. १०/३५॥

तेजस्तेजस्विनामहम्॥ भीष्म. ३४/३६; गीता. १०/३६॥

मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम्॥ भीष्म. ३४/३८; गीता. १०/३८॥

यच्चापि सर्वभूतानां बीजं तदहमर्जुन।
न तदस्ति विना यत् स्यान्मया भूतं चराचरम्॥ भीष्म. ३४/३९; गीता. १०/१९॥

यद् यद् विभूतिमत् सत्त्वं श्रीमदूर्जितमेव वा।
तत् तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम्॥ भीष्म. ३४/४१; गीता. १०/४१॥