कुलालचक्रकीटन्यायः

विकिसूक्तिः तः

भ्रमतः कुलालचक्रस्य उपरि वर्तमानः कश्चन कीटविशेषः तस्य चक्रस्य भ्रमणस्य विपरीतदिशायां भ्रमतीव भाति । तथा विपरीतां स्थितिं बोधयितुम् अस्य न्यायस्य प्रयोगो भवति । भागवते एतस्य उल्लेखः वर्तते –

यथा कुलालचक्रेणा भ्रमता सह भ्रमतां तदाश्रयाणां पिपीलिकादीनां गतिरन्यैव प्रदेशान्तरेषु अपि उपलभ्यमानत्वात् एवं नक्षत्रराशिभिः उपलक्षितेन कलाचक्रेण ध्रुवं मेरुं च प्रदक्षिणेन परिधावता सह परिधावमानानां तदाश्रयाणां सूर्यादीनां ग्रहाणां गतिरन्यैव नक्षत्रान्तरे राश्यन्तरे च उपलभ्यमानत्वात् । (सा. ५९७)

"https://sa.wikiquote.org/w/index.php?title=कुलालचक्रकीटन्यायः&oldid=9432" इत्यस्माद् प्रतिप्राप्तम्