कूटकार्षापणन्यायः

विकिसूक्तिः तः

कूट इति कृत्रिमस्य द्रव्यस्य नाम । कार्षापणमिति नाणकम् । केनापि कूटानां नाणकानां विनिमयेन द्रव्यमर्जितं तर्हि तत् गर्हणीयं भवति । सहसैव तत् परिहरणीयं भवति । तथैव यदि काचित् स्मृतिः श्रुतिविरुद्धं किमपि प्रतिपादयेत् तर्हि तत् सहसैव त्याज्यम् इति न्यायेन बोध्यते ।

पश्यन्तु-शब्दापभ्रंशवदेव गौणाभ्रान्त्यादिप्रयोगनिमित्ता अर्थापभ्रंशा भवन्ति ते शास्त्रस्थैरेव अविप्लुतार्थ क्रियानिमित्तपुण्यर्षिभिः शक्यन्ते, साध्वसाधुकार्षापणमध्यादिव तत्परीक्षिभिर्विवेक्तुम् ॥(तन्त्रवार्तिकम्१-३-८)

"https://sa.wikiquote.org/w/index.php?title=कूटकार्षापणन्यायः&oldid=9446" इत्यस्माद् प्रतिप्राप्तम्