घटप्रदीपन्यायः

विकिसूक्तिः तः

१) घटे स्थापितस्य दीपस्य प्रकाशः उपरि अधः अन्तः सर्वत्र भवति तथा कस्यचन प्रसिद्धिविमुखस्य सज्जनस्य ज्ञानप्रकाशः सर्वत्र प्रसरति ।

२) घटे स्थापितस्य दीपस्य प्रकाशः घटस्यैव अन्तः भवतीति सादश्श्येन मनुष्यस्य स्थितिवशात् प्रकाशः मर्यादितो भवतीत्यपि अस्यार्थः । (सा. ३६२)

तुल्यः- घटसूर्यविम्बन्यायः

"https://sa.wikiquote.org/w/index.php?title=घटप्रदीपन्यायः&oldid=9677" इत्यस्माद् प्रतिप्राप्तम्