धनञ्जयन्यायः

विकिसूक्तिः तः

एकमेव कर्म पुनः पुनः कर्तुं शक्यते इत्यस्मिन् अर्थे अस्य न्यायस्य प्रयोगः भवति । दैवपद्धत्या कृष्णः कौरवाणां पराभवं कृतवान् अनन्तरं युद्धे अर्जुनः अपि निमित्तीभूय पराजयं कृतवान् ।

यथाः नित्यबोधमहिम्ना बाधितेऽपि द्वैते वाक्यबोधस्य

धनञ्जयन्यायेन बाधकत्वोपपत्तेः । यथाहुः –

नित्यबोधपरिपीडितं जगत् विभ्रमं नुदति वाक्यजा मतिः ।

वासुदेवनिहतं धनञ्जयो हन्ति कौरवकुलं यथा पुनः ॥

(रघुनाथः लौकिकन्यायसाहस्त्रीतः ) सा. ८९६

"https://sa.wikiquote.org/w/index.php?title=धनञ्जयन्यायः&oldid=10383" इत्यस्माद् प्रतिप्राप्तम्