धारावाहिकबुद्धिन्यायः

विकिसूक्तिः तः

बुद्धिर्नाम निश्चयात्मिका अन्तः करणस्य वृत्तिः । सा प्रवाहरुपा भवति । बुद्धेः वृत्तयः एकस्याः पश्चात् अपरा इति क्रमेण उत्पन्नाः भवन्ति । काश्चन तासु नष्टाः भवन्ति काश्चन च पुनरुत्पन्नाः । एवं धारारुपेण वहन्ती बुद्धिः धारावाहिकबुद्धिः इति व्यवहारः । अयमेव

अविच्छिन्नज्ञानप्रवाहः इत्यपि प्रसिद्धः ।