बीजवृक्षन्यायः

विकिसूक्तिः तः

बीजाद् वृक्षः वृक्षाद् बीजं वा इति प्रश्ने जाते द्वयोः कतरत् पूर्वं जातमिति निश्चयः दुष्करः भवति । द्वयोः संबन्धः अनादिः । एवं कयोरपि द्वयोः कार्यकारणभावः निश्चेतुम् अशक्यश्चेत् तत्र अस्य प्रयोगः क्रियते ।

तुल्यः – बीजाङ्कुरन्यायः

"https://sa.wikiquote.org/w/index.php?title=बीजवृक्षन्यायः&oldid=10596" इत्यस्माद् प्रतिप्राप्तम्