बीजाङ्कुरन्यायः

विकिसूक्तिः तः

बीजं विना अङ्कुरः अङ्कुरं विना बीजं च न भवति एवं यत्र परस्परं कार्यकारणभावो विद्यते तत्र अस्य न्यायस्य प्रयोगो भवति । यस्मात् अङ्कुरात् यद् बीजम् उत्पन्नं तद् बीजं तस्य अङ्कुरस्य कारणं नास्ति अतः अत्र अन्योन्याश्रयदोषः नास्ति ।

"https://sa.wikiquote.org/w/index.php?title=बीजाङ्कुरन्यायः&oldid=10598" इत्यस्माद् प्रतिप्राप्तम्