मत्तकाशिनीन्यायः

विकिसूक्तिः तः

मत्तकाशिनी नाम सुन्दर –स्त्री ! “वरारोहा मत्तकाशिनी उत्तमा वरवर्णिनी” । मत्तकाशिन्याः बहूनां कामुकपुरुषाणां प्राप्तेः शक्यता भवति । तथापि सा पशुपक्षिणां विषये कामुकतां यदि दर्शयेत् तर्हि कियत् आश्चर्यजनकं स्यात् ? अधिकलाभस्य प्राप्तेः शक्यतायां सत्यां कोऽपि अल्पलाभेन संतुष्टः भवति चेत् अविवेकी भवति इति भाव्ः । (सा. १७३)

"https://sa.wikiquote.org/w/index.php?title=मत्तकाशिनीन्यायः&oldid=10680" इत्यस्माद् प्रतिप्राप्तम्