मरुमरीचिकान्यायः

विकिसूक्तिः तः

मरुस्थले स्थित्वा पश्यामः चेत् कदाचित् दूरे जलम् अस्ति इव भाति । परन्तु तत्र गत्वा पश्यामः चेत् जलज्ञानं भ्रमः इति ज्ञायते । एवं वस्तुनः अभावेऽपि भासमानताम् आश्रित्य प्रवृत्तः अयं न्यायः । मरुमरीचिका यत्र भासते तत्र जलभ्रमेण मृगाः धावन्ति पश्चात् तत्र जलम् अप्राप्य दुःखम् अनुभवन्ति । एवं जीवने भ्रमवशात् प्रवृत्तिः भवति चेदपि अनन्तरं सा नश्यति । नायं मम प्रस्तावो मृगतृष्णिकेव विषादाय कल्पेत । (अभिज्ञानशाकुन्तले ७)

"https://sa.wikiquote.org/w/index.php?title=मरुमरीचिकान्यायः&oldid=10689" इत्यस्माद् प्रतिप्राप्तम्