यथासंख्यन्यायः

विकिसूक्तिः तः

एकस्मिन् एव वाक्ये एकसंख्याकम् उद्देश्यं विधेयं भवतः चेत् प्रथमस्य उद्देशस्य प्रथमेन विधेयेन द्वितीस्य द्वितीयेन तृतीयस्य च तृतीयेन इति कश्चन अन्वयक्रमः भवति । <poem> यथाः त्वम् अरिं मित्रं सङ्कटं च जय रञ्जय सहस्व च । इत्युक्ते यथाक्रमम् अरिं जय, मित्रं रञ्जय, सङ्कटं च सहस्व इति अन्वयः भवति । यथासड्ख्यम् अनुदेशः समानाम् इति पाणिनिकृतं सूत्रम् अस्ति (१-३-१०)

तथा एतस्य न्यायस्य उपयोगः टाडसिडसाम् इतात्स्याः इति पाणिनिसूत्रे (७-१-१२) भवति । टा- ङसि इति प्रत्ययानां स्थाने इन – आत्क्षस्यक्ष इत्येते भवन्ति इत्युक्ते यथाक्रमं टास्थाने इनादेशः, ङसिस्थाने आतप्रत्ययः ङसस्थाने च स्य इति आदेशाः भवन्ति इति भावः ।

"https://sa.wikiquote.org/w/index.php?title=यथासंख्यन्यायः&oldid=10833" इत्यस्माद् प्रतिप्राप्तम्