रक्तपटन्यायः

विकिसूक्तिः तः

पटः अस्ति इति निराकाङ्क्षं वाक्यम् । तथापि कीदृशः पटः इति आकांक्षां जनयित्वां ‘रक्तः पट’ इति समाधीयते । तेन द्वयोः एकवाक्यता सिद्ध्यति । एवं निराकांक्षस्य वाक्यस्य स्थले अपि आकांक्षाजननेन एकवाक्यता साध्यते इति भावः । (सा. ५०१)

"https://sa.wikiquote.org/w/index.php?title=रक्तपटन्यायः&oldid=10989" इत्यस्माद् प्रतिप्राप्तम्