रामठकरण्डन्यायः

विकिसूक्तिः तः

करण्डके स्थापितस्य रामठस्य एतावान् प्रभावः भवति यत् तस्मिन् यावत्कालपर्यन्तं तिष्ठति तावत् करण्डकं सुगन्धयति पश्चात् अपनीयते चेदपि सुगन्धः करण्डके भवति एव । एवं सज्जनाः यावत्कालपर्यन्तं सह भवन्ति तावत् स्वसंगत्या अन्येषां जीवनं रञ्जयन्ति कालान्तरे गच्छन्ति चेदपि स्वसङ्गतेः सुगन्धं तथैव स्मरणरुपेण त्य जन्ति इति भावः ।

"https://sa.wikiquote.org/w/index.php?title=रामठकरण्डन्यायः&oldid=10967" इत्यस्माद् प्रतिप्राप्तम्