श्मशानकुसुमन्यायः

विकिसूक्तिः तः

श्मशाने प्रफुल्लानि कियन्ति वा सुन्दराणि पुष्पाणि निरुपयोगीनि एव भवन्ति । तेषां सुगन्धस्य सौन्दर्यस्य वा प्रशंसां कोऽपि न करोति । तथैव अयोग्ये स्थले वर्तमानस्य गुणसंपन्नस्य गुणमाहात्म्यं कोऽपि न जानाति इति भावः ।

"https://sa.wikiquote.org/w/index.php?title=श्मशानकुसुमन्यायः&oldid=11216" इत्यस्माद् प्रतिप्राप्तम्