जैनदर्शनसूक्तयः (कामी)

विकिसूक्तिः तः

<poem> १. अधिगतहृदया मनस्विनीनां किमु विलसन्मकरध्वजा न कुर्युः ? - ध० श० १३.३२

२. इच्छा पश्यति नो चक्षुः कामिनामित्युदीरितम् । - उत्तरपुराणम् ६८.१०१

३. वर्ज्यायाः किं पुनर्नार्याः कामिनां का विचारणा । - आदिपुराणम् ४३.११५

४. कामार्ताः खलु मुञ्चन्ति, किमन्यैः स्वञ्च जीवितम् । - क्षत्रचूडामणिः १.१२

५. पराराधनजाद् दैन्यात्, पैशून्यात् परिवादतः पराभवात्किमन्येभ्यो, न विभेति हि कामुकः । - क्षत्रचूडामणि १.११