जैनदर्शनसूक्तयः (कार्यसिद्धिः)

विकिसूक्तिः तः

<poem>

१. कार्यसिद्धिरिहाभीष्टा

सर्वथा नयशालिभिः । - पद्मपुराणम् ५३..८५

२. क्रियासिद्धिः सत्त्वे

वसति महतां नोपकरणे । - मदनपराजयः १.१५

३. नाजितेन्द्रियाणां काऽपि कार्यसिद्धिः । - नीतिवाक्यामृतम् ३.७

४. पातालस्थं जलं

यन्त्रात्करस्थं क्रियते यतः । - उपासकाध्ययनम् ८१

५. प्रीत्यैव शोभना सिद्धिर्युद्धतस्तु जनक्षयः । - पद्मपुराणम् ६६.२४

६. महता परिश्रमेण विना

महत्कार्यं न सम्पन्नं संजायते । - व० च० स्त० ६,पृ.१३७

७. भवत्यर्थस्य संसिद्ध्यै

केवलं न च पौरुषम् । - पद्मपुराणम् १२.१६६

८. सुनिश्चितानामपि सन्नराणां

विना प्रधानेन न कार्ययोगः । - पद्मपुराणम् ५८.४८