उदये सविता रक्त:...

विकिसूक्तिः तः

<poem>

सुभाषितम्

उदये सविता रक्त: रक्तश्चास्तमने तथा ।
सम्पत्तौ च विपत्तौ च महतामेकरूपता॥





तात्पर्यम्

सूर्योदयकाले सूर्यास्तकाले च सूर्यः रक्तवर्णः एव यथा भवति तथा सम्पत्तौ विपत्तौ महात्मनः एकेनैव रूपेण भवन्ति। उभयथा अपि समत्वं परिपालयन्ति महात्मनः इत्यर्थः।

"https://sa.wikiquote.org/w/index.php?title=उदये_सविता_रक्त:...&oldid=16998" इत्यस्माद् प्रतिप्राप्तम्