आत्मा त्वं...

विकिसूक्तिः तः

आत्मा त्वं गिरिजा मति: सहचरा: प्राणा: शरीरं गृहम्
पूजा ते विषयोपभोगरचना निद्रा समाधिस्थिति:।
संचार: पदयो: प्रदक्षिणविधि: स्तोत्राणि सर्वा गिरो
यद्यत् कर्म करोमि तत्तदखिलं शम्भो तवाराधनम् ॥

"https://sa.wikiquote.org/w/index.php?title=आत्मा_त्वं...&oldid=16764" इत्यस्माद् प्रतिप्राप्तम्