निवृत्ता भोगेच्छा...

विकिसूक्तिः तः

निवृत्ता भोगेच्छा पुरुषबहुमानोऽपि गलित:।
समाना: स्वर्याता: सपदि सुहृदो जीवितसमा:॥
शनैर्यष्ट्युत्थानं घनतिमिररुद्धे च नयने।
अहो मूढ: कायस्तदपि मरणापायचकित:॥

नीरोद्भवस्य पद्मस्य मत्स्यस्य कुमुदस्य च । एकत्रैव प्रसूतानां तेषां गन्धः पृथक् पृथक् ॥

"https://sa.wikiquote.org/w/index.php?title=निवृत्ता_भोगेच्छा...&oldid=17217" इत्यस्माद् प्रतिप्राप्तम्