स्मर चिरं हे भारतीय !...

विकिसूक्तिः तः

स्मर चिरं हे भारतीय !...


स्मर चिरं हे भारतीय !
तव पुरातन-वीरचरितम् ।
धर धियं हृदि मनसि धैर्यं,
कुरु समर्पणमात्मबुद्ध्या ॥

कलय हृदये पूर्वजानां
त्यागपूरित-ध्येयनिष्ठाम् ।
प्रकुरु सकले जीवनेऽस्मिन्
ज्ञानकारकतप: श्रेष्ठम् ।
अनुसरामो ध्येयमार्गं
देशसेवनधर्मजुष्टम् ॥

किमुत तव हृदि संशयांशो
भव्यभारतत्यागचरिते ?
किं वृथा नरवीरकेशव-
तीर्थमाधवत्यागचरितम् ?
सर्जयामो नाकतुल्यं
धर्मशासित-भारतम् ॥

दीयतां ते त्यागसुरभित-
जीवनं ननु कार्यसिद्ध्यै ।
कारयामो विश्वमखिलं
भारतत्व-सुगन्धपूर्णम् ।
साधयामो देववाणीं
दिग्दिगन्त-प्रसारिणीम् ॥


- प. नन्दकुमार:


"https://sa.wikiquote.org/w/index.php?title=स्मर_चिरं_हे_भारतीय_!...&oldid=15372" इत्यस्माद् प्रतिप्राप्तम्