पूर्णविजयसङ्कल्पोऽस्माकम्...

विकिसूक्तिः तः

पूर्णविजयसङ्कल्पोऽस्माकम्...


पूर्णविजयसङ्कल्पोऽस्माकं, सततपरिश्रमशीलवताम् ।
आयुगमविरतमनुवर्तत इह राष्ट्रधर्मसमुपासनम् ॥
वन्दे मातृभुवं वन्दे, वन्दे जगदम्बां वन्दे ॥

पुण्यपुरातनदेशोऽस्माकं मानवतार्चनसक्तिमताम्
प्रवहति पावनसंस्कृतिगङ्गा किल्बिषजातमपाददति ।
सकलविश्वमङ्गलसंरचने जुहोति सर्वोऽप्यात्मानम्
आयुगम........... ॥

परमो मन्त्र: समरसता न: शक्तिसंभृतं राष्ट्रमिदम् ।
पूर्वजगौरवगाथास्माकं मार्गदर्शिका प्रेरिका
भविष्यपथमुज्ज्वलमाधातुं शक्तिं सञ्चिनुमो नियतम्
आयुगम........... ॥

मातृभूमिराराध्येयं नो गतिरस्माकं सैव परा ।
ईशकार्यमिदमेवास्माकं जीवितैकसङ्कल्पनम्
सज्जननिर्मितकार्यपथेऽस्मिन् ननु यामो वयमनवरतम्
आयुगम........... ॥