नमो भगवति !...

विकिसूक्तिः तः

नमो भगवति !...


नमो भगवति ! हे सरस्वति !
वन्दे तव पदयुगलम् ॥
विद्यां बुद्धिं वितनु भारति
चित्तं कारय मम विमलम् ॥

वीणावादिनि शुभमतिदायिनि
पुस्तकहस्ते देवनुते ।
वर्णज्ञानं सकलनिदानं
सन्निहितं कुरु मम चित्ते ॥ नमो ॥

हंसवाहिनि ब्रह्मवादिनि
करुणापूर्णा भव वरदे ।
मञ्जुलहासिनि नाट्यविलासिनि
लास्यं कुरु मम रसनाग्रे ॥ नमो ॥


गु. गणपय्यहोळ्ळ


"https://sa.wikiquote.org/w/index.php?title=नमो_भगवति_!...&oldid=15409" इत्यस्माद् प्रतिप्राप्तम्