संस्कृतस्य सेवनम्...

विकिसूक्तिः तः

संस्कृतस्य सेवनम्...


संस्कृतस्य सेवनं, संस्कृताय जीवनम् ।
लोकहितसमृद्धये भवतु तनुसमर्पणम् ॥

कार्यगौरवं स्मरन् विघ्नवारिधिं तरन्
लक्ष्यसिद्धिमक्षिसात् करोमि सोद्यम: स्वयम् ।
यावदेति संस्कृतं, प्रतिजनं गृहं गृहम्
तावदविरता गतिस्तावदनुपदं पदम् ॥

कामये न सम्पदं भोगसाधनं सुखम्
किञ्चिदन्यदाद्रिये विना न संस्कृतोन्नतिम् ।
गौरवास्पदं पदं, नेतुमद्य संस्कृतम्
बद्धकटिरयं जनो निधाय जीवनं पणम् ॥

भाषिता च वागियं भाषिता भवेद् ध्रुवम्
भाष्यमाणतां समेत्य राजतां पुनश्चिरम्
भरतभूमिभूषणं सर्ववाग्विभूषणम्
संस्कृतिप्रवाहकं संस्कृतं विराजताम् ॥


- जनार्दन हेगडे


"https://sa.wikiquote.org/w/index.php?title=संस्कृतस्य_सेवनम्...&oldid=15411" इत्यस्माद् प्रतिप्राप्तम्