पुरः पुरः प्रयाहि...

विकिसूक्तिः तः

पुरः पुरः प्रयाहि...


पुर: पुर: प्रयाहि रे
प्रगाय मातृवन्दनम् ।
स्वजन्मभूमिरक्षणे
प्रदेहि वीर जीवनम् ॥
प्रयाहि देशगौरव
स्वराष्ट्रकेतुमुद्धरन्
पदं पदं प्रगच्छ रे
विजेेतृभावमुद्वहन् ॥

शिरोऽस्तु ते समुन्नतं
तवास्तु मा क्वचिद् भयम् ।
प्रभुस्तवास्ति पार्श्वत:
सुशस्त्रसज्जित: स्वयम् ॥

पुर: पुर: प्रधाव रे
बलं तवाद्य वर्धताम् ।
यत: प्रभुस्ततो जय:
तत: सुवीर युध्यताम् ॥

रणे धृति: सुकौशलं
प्रवर्धतां मनोबलम् ।
जयस्तवास्ति निश्चित:
कुरु स्वधर्मपालनम् ॥


- नरेन्द्र:


"https://sa.wikiquote.org/w/index.php?title=पुरः_पुरः_प्रयाहि...&oldid=15431" इत्यस्माद् प्रतिप्राप्तम्