संस्कृतभाषा सरला सुलभा...

विकिसूक्तिः तः

संस्कृतभाषा सरला सुलभा...


संस्कृतभाषा सरला सुलभा
माता मम सा पुत्रवत्सला ॥

भाषणमनया दशदिनसाध्यं
तोेषकरं ननु सरलतरम् ।
स्यात् संस्कृततो नवता समता
मधुरो भावो देशहितम् ॥
   
उटजनिवासी भवनावासी
वृद्धो शिशुरपि तरुणगणोऽपि ।
यो वा को वा भारतवासी
अर्हति भवितुं संस्कृतभाषी ॥

सन्तु हि दोषा: प्रथमे घट्टे
सिध्यति शुद्धिर्यत्नबलात् ।
मास्तु भयं हृदि शङ्का लज्जा
यत्न: क्रियताम् अनवरतम् ॥

अविरतसेवा वाचा पूजा
संस्कृतमातुर्भवतु चिरम् ।
जनपदभाषा भारतभूषा
संस्कृतभाषा जयतुतराम् ।


- जनार्दन हेगडे