भारतसंस्कृति: संस्कृतभारती...

विकिसूक्तिः तः

भारतसंस्कृति: संस्कृतभारती...


भारतसंस्कृति: संस्कृतभारती
द्वयमेतन्मम जीवनम् ॥

यत्र मुनीनां शमकलितानां मङ्गल-मन्त्रनिनाद: ।
यत्र कवीनां मृदुभणितीनां मञ्जुलकाव्य-विनोद: ॥

यस्या: कीर्तिपताका सततं प्रचरति विश्वमशेषम् ।
यस्या: संस्तवलेशत एव विन्दति चित्तमकलुषम् ॥

यस्या: प्रवहति वेदोपनिषद्-गीताजलमतिरुचिरम् ।
यस्या: प्रभवति भाषासन्ततिरमिताकारा सुचिरम् ॥

यस्यै जीवनसमयो नीत: शङ्करमध्वमुनीनाम् ।
यस्यै कविताकर्म समर्पितमतुलं व्यासमुखानाम् ॥

यया जनानां योगरतानां विकसितमात्मज्ञानम् ।
यया कलानां नाट्यगतानां विस्तृतमखिलविधानम् ॥

यां परिपातुं परमतबाधाद् अनवरतं यतनीयम् ।
यामिह नेतुं सुललितमार्गे सङ्घटनं करणीयम् ॥

या गङ्गाजल-पुण्यतरङ्गैर्वहति पवित्रितगात्रम् ।
या कुलभवने परिजनवदने लसति घनादरपात्रम् ॥


- गु. गणपय्यहोळ्ळ: